Sri Jayadeva Rachitam: Dasavatara Stotra Lyrics in Sanskrit

Rate this post

मीन अवतार-
प्रलयपयोधिजले धृतवानसि वेदम । विहितवहित्रचरित्रमखेदम् |
केशव धृतमीनशरीर जय जगदीश हरे ।1।

कूर्म अवतार-
छितिरतिविपुलतरे तव तिष्ठति प्रष्ठे । धरणिधरणकिणचक्रगरिष्ठे।
केशव धृतकच्छपरूप जय जगदीश हरे ।2।

वराह अवतार-
वसति दशनशिखरे धरणी अव लग्ना । शशिनि कलन्कलेव निमग्ना।
केशव धृतसूकररूप जय जगदीश हरे ।3।

नृसिंह अवतार-
तव करकमलवरे नखमद्भुतशृंगम्। दलितहिरण्यकशिपुतनुभृङ्गम् ।
केशव धृतनरहरिरूप जय जगदीश हरे ।4।

वामन अवतार-
छल्यसि विक्रमणे बलिमद्भुतवामन । पदनखनीरजनितजनपावन।
केशव धृतवामनरूप जय जगदीश हरे ।5।

परशुराम अवतार-
क्षत्रिययरूधिरमये जगदपगतपापम । स्नपयसि पयसि शमितभवतापम ।
केशव धृतभृगुपतिरूप जय जगदीश हरे ।6।

राम अवतार-
वितरसि दिक्षु रणे दिक्पतिकमनीयम । दशमुखमौलिबलिं रमणीयम् ।
केशव धृतरघुपतिवेष जय जगदीश हरे ।7।

बलराम अवतार-
वहसि वपुषे विशदे वसनं जलदाभम। हलहतिभीतिमिलितमुनाभम् ।
केशव धृतहलधररूप जय जगदीश हरे ।8।

बुद्ध अवतार-
निन्दसि यज्ञविधेरहह श्रुतिजातम । सदयह्रदयदर्शितपशुघातम्।
केशव धृतबुद्धशरीर जय जगदीश हरे ।9।

कल्कि अवतार-
मलेक्छनिवहनिधने कलयसि करवालम । धूमकेतुमिव किमपि करालम ।
केशव धृतकल्किशरीर जय जगदीश हरे ।10।

श्रिजय्देवकवेरिदमुदितमुदारम् । शृणु सुखदं शुभदं भवसारम ।
केशव धृतदशविधरूप जय जगदीश हरे ।11।

॥ इति श्रीजयदेवविरचितं श्रीदशावतारस्तोत्रं सम्पूर्णम्। ॥

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment