Shalivaktrapuralaya Dhanvantari Stotram Lyrics in Sanskrit

Rate this post

भिषग्वर रमाकान्त शालिवक्त्रपुरालय ।
रागरोगादिभूतं मां पाहि धन्वन्तरे हरे ॥ १॥

शङ्खचक्रसुधाकुम्भजलुकाधर माधव ।
करुणाकर मामाशु पाहि धन्वन्तरे हरे ॥ २॥

अखिलाधार गोविन्द निखिलार्तिनिवारक ।
व्याकुलं मां महाविष्णो पाहि धन्वन्तरे हरे ॥ ३॥

श्यामवर्ण सदानन्द शालितुण्डपुरेश्वर ।
विपन्नं मां विश्वबन्धो पाहि धन्वन्तरे हरे ॥ ४॥

जनार्द्दन जगन्नाथ जलजाक्ष ज्वरापह ।
प्रणतार्द्र प्रपन्नं मां पाहि धन्वन्तरे हरे ॥ ५॥

सनातन गुणाराम सर्वामयकुलान्तक ।
रुजार्तं मां कृपाराशे पाहि धन्वन्तरे हरे ॥ ६॥

शान्त शालिमुखागार शारदेन्दुनिभानन ।
शर्मसागर निःस्वं मां पाहि धन्वन्तरे हरे ॥ ७॥

सुधाशनपते विश्वक्लेशनाशन केशव ।
प्रतप्तं मां सुधापाणे पाहि धन्वन्तरे हरे ॥ ८॥

वासुदेव हृषीकेश व्याधिजातविनाशक ।
वनमालिन् वराकं मां पाहि धन्वन्तरे हरे ॥ ९॥

नारायण दयासिन्धो नाथ शालिमुखालय ।
पद्मनाभ मुरारे मां पाहि धन्वन्तर हरे ॥ १०॥

रोगातुराणामभयप्रदायिन् दाक्षिण्यवार्धे भिषगीशमूर्ते ।
कल्याणराशे कमलापते मां धन्वन्तरे पाहि हरे मुरारे ॥ ११॥

क्षीराब्धिनाथ दरचक्रसुधाजलूका-
धारिन् दयार्द्र शालिमुखालयेश ।
सर्वामयापह भिषग्वर सन्ततं मां
धन्वन्तरे पाहि हरे मुरारे ॥ १२॥

इति शालिवक्त्रपुरालय धन्वन्तरि स्तोत्रं सम्पूर्णम् ।

Also Read

अस्वीकरणम्: Apkalyrics.com इति जालपुटं द्रष्टुं बहु धन्यवादः। मित्रं अस्माकं लक्ष्यं भवतः कृते सर्वोत्तमानि, अवगम्यमानानि, त्रुटिरहितं च गीतानि प्रदातुं येन भवतः प्रियगीतानि अतिरिक्तसमये परिवर्तनं कर्तुं शक्नुवन्ति यतोहि वयं अस्माकं सामग्रीं अद्यतनं कर्तुं कार्यं कुर्मः।

यदि भवतः समीपे अशुद्धयः त्रुटयः च सन्ति तर्हि किमपि सुझावः प्रतिक्रिया वा। अन्येषां आगन्तुकानां कृते अस्माकं वेबसाइट् गुणवत्तां वर्धयितुं साहाय्यं कर्तुं कृपया स्वस्य बहुमूल्यं सुझावं प्रतिक्रियां च टिप्पणीपेटिकायां सूचयन्तु। धन्यवाद

Leave a Comment